Wednesday 28 November, 2007

मम पत्न्या सह काभ्यांचित्‌ मित्रदंपतीभ्यां च Tamilnaduराज्ये होगेनक्कल्‌क्षेत्रं अगच्छं। तस्मै मित्राय एतत्‌ पत्रं प्रेषितवान्‌ अहं।

प्रियवासुमहोदय!
स्वस्ति। धर्मकार्यैः लब्धं पुण्यं न वण्टितुं शक्यते किंतु तदर्थं कृतं व्ययं अवश्यं समं वण्टनीयं। अनेन द्विसहस्रैकशतपञ्चादशरूप्यकात्मकं धनपत्रं यथोक्तं प्रेष्यते। २३-Nov-०७/२४-Nov-०७दिनाङ्कयोः कार्तिकपौर्णम्यां रमणीयकावेरीतीरे होगेनक्कल्‌क्षेत्रे श्रीमदाञ्जनेयगुरुराघवेन्द्रयोः सन्निधौ पाप्पारपट्टीआस्तिकसमाजेन सवैभवं वेदपारायणसत्प्रवचनगीतवाद्यादिसेवाभिः अनुष्ठितेषु सुदर्शनहोमधात्रीहोमश्रीसत्यनारायणपूजादिषु तीर्थस्नानस्तोत्रपठनवनभोजनादिभिः श्रीहरिसेवासौभाग्यावसरं दत्तवद्भ्यां भवद्भ्यां आवयोः धन्यवादाः। एवमेव अग्रेऽपि इहपरलाभाय पर्यटनं कुर्वीमहि।
सप्रेमादरं
मध्वपति रामचन्द्रः
२७-Nov-०७

नदीसमुद्रपर्वतवनादिप्राकृतिकसौन्दर्यं न कदाऽपि पर्युषितं भवति। स नूनं जडमतिः यस्तेन न प्रेरितः भवति। ते एव नदीतरङ्गाः ताः एव समुद्रलहर्यः सा एव पर्वतशिखरावली आसमन्तात्‌ तदेव निबिडवृक्षवनस्थलं यानेन गच्छद्भिः वृक्षान्तरे दृश्यमाना सा एव कावेरी स एव सदा सरभसं गर्जत्प्रपातः तथाऽपि दर्शं दर्शं ते दृश्यसन्निवेशाः अक्षय्येन नयनामृतायन्ते। पुनरुक्तिदोषः प्रत्येकलक्षणं बहुरूपैः दर्शयन्तीं प्रकृतिं न लिम्पति।

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्‌ पर्युत्सुकीभवति यत्‌ सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि॥ इति शाकुन्तले

निर्मलानन्दानुभवाय स्वास्थ्यं नाधिकं धनं च अपेक्ष्येते।

Wordsworthकविना जडमतिलक्षणं एवं वर्ण्यते -

A primrose by the river's brim,
An yellow primrose was to him
A flower and nothing more!

किंतु होगेनक्कल्‌क्षेत्रादिषु पर्यटद्भ्यः जनेभ्यः शासनं प्राकृतिकसौन्दर्यदर्शनकरं गृह्णाति। तत्क्षेत्रं प्रवेष्टुमपि करं दातव्यं। किंतु दिष्ट्या होगेनक्कल्‌प्रपाते निःशुल्कं स्नानं कर्तुं शक्यते। कार्तिकपौर्णम्यां ज्योत्स्नाप्लावितपर्वतोपरि भासमानं राकाचन्द्रश्रियमपि करं अदत्त्वा द्रष्टुं शक्यते। अस्मिन्‌ वणिग्युगे प्राकृतिकसौन्दर्यमपि विक्रेयवस्तु अतः पर्यटकसेवा बहुलाभदा अतिथिसत्कारः क्रयविक्रयविषयश्च।

Wednesday 14 November, 2007

१३-Nov-०७
आविश्वं स्थावरजङ्गमेषु आकीटब्रह्मपर्यन्तं प्राज्ञविधित्सा अर्थात्‌ Intelligent Design सृष्ट्यां सुस्पष्टं दृश्यते इति केचित्‌। तेषां उपपत्तिः प्रत्ययजनका। तथाऽपि असन्दिग्धप्रमाणं नास्ति इति केचिदन्ये शङ्कन्ते। तया शङ्कया एतां नर्मकथां स्मरामि।

स्वपत्नीं शङ्कमानः कश्चित्‌ वणिक्‌ कञ्चित्‌ गुप्तचरं आहूय वदति अपरनगरं गत्वा तत्र द्वित्रादिनानि मया स्थातव्यं। तेषु दिनेषु मम पत्न्याः गमनागमनं निभृतं निरीक्ष्य मयि प्रत्यागतवति मह्यं निवेदय इति। तथैव करिष्ये इति स गुप्तचरः। द्वित्रादिनानन्तरं स वणिक्‌ प्रत्यागत्य कथयतु इति गुप्तचरं वदति। स वदति। यस्मिन्‌ दिने भवान् प्रस्थानं कृतवान्‌ तस्मिन्नेव सन्ध्यायां कश्चित्‌ सुन्दरयुवजनः भवद्गृहं आगतवान्‌। भवत्पत्नी तं गाढं आलिङ्ग्य तस्य स्वागतं कृतवती। उभावपि यानेन पञ्चनक्षत्रभोजनगृहं अगच्छतां। तत्र तौ सरससल्लापं कृत्वा भोजनं अकुरुतां। ततः तौ कस्मिंश्चित्‌ कोष्ठे प्रविष्टौ। कामज्वरसंभ्रमेण चुम्बन्तौ परस्परविवस्त्रं कृतवन्तौ नग्नौ तौ बद्धद्वारस्य कुञ्चिकाछिद्रेण अपश्यं। शय्यायां एकोपर्यपरेण पतित्वा दीपः निर्वापितश्च। अनन्तरं किं संवृत्तं इति द्रष्टुं अशक्यं आसीत्‌ इति।

तच्छ्रुत्वा स वणिक्‌ सशिरस्ताडं विलपति हा धिक्‌ अद्यापि असन्दिग्धप्रमाणं न विद्यते इति।

(Wikipediaकोषे प्राज्ञविधित्सां पठित्वा लिखितं।)

Monday 12 November, 2007

Alexander Dumas इव कश्चित्‌ आख्यायिकाकारः भारतस्य अपेक्ष्यते यः तस्य अतिदीर्घं अतिविश्रुतं अतिशोकावहं च इतिहासं हृदयङ्गमकथारूपेण लिखेत्‌ यत्‌ जनाः सस्पृहं पठेयुः। वस्तुतः न केवलं भारतस्य किंतु ब्रह्माण्डस्य इतिहासं मत्स्याद्यष्टादशपुराणेषु वेदव्यासः सज्जनहितार्थं अकथयत्‌। किंतु पुराणकथाः सर्वे अविश्वसनीयाः उपेक्ष्याः ऐतिहासिकप्रमाणरहिताः च यतः ताः कैश्चित्‌ अप्रबुद्धैः कल्पिताः इति आधुनिकसुप्रबुद्धाः इतिहासरचनपाटवाः वामपङ्क्तिबुद्धिजीविनः वदन्ति। India इति एकशासनाधीनः देशः एव श्वेतमानवैः निर्मितः यत्र पुरा असंस्कृताः अशिक्षिताः असभ्याः जनाः एव आसन्‌। यवनश्वेतमानवैः एव अत्र सभ्यता प्रतिष्ठापिता अतः तेषां आगमनानन्तरं एव Indiaदेशस्य इतिहासं प्रावर्तत इति च। अत एव इतिहासकाराः कर्तुं विकर्तुं अन्यथाकर्तुं क्षमं किंतु भूतपरिवर्तने अक्षमं देवमपि अतिगच्छन्ति यतः ते इतिहासपरिवर्तनप्रवीणाः। इतिहासगतिः इतिहासकारायत्ता। बहुसहस्रवर्षेभ्यः पूर्वं किं संवृत्तं इत्यधिकृत्य प्रत्यक्षप्रमाणदृढप्रत्ययेन प्रतिपारदृश्वनः ते प्रतिपादयन्ति। अतः अनुभवगोचरस्य अद्य संवृत्तस्य याथार्थ्यं वयं न जानीमः। अग्रे केनचित्‌ इतिहासकारेण तत्‌ प्रतिपादितं भविष्यति। य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ गीता २, १९। न चैव न भविष्यामः सर्वे वयमतः परम्। गीता २, १२। इति प्रतिज्ञया अग्रे यदा वर्तमानं भूतं भविष्यति तदा इतिहासकारसौजन्येन जानीमहि।