Wednesday, 28 November 2007

मम पत्न्या सह काभ्यांचित्‌ मित्रदंपतीभ्यां च Tamilnaduराज्ये होगेनक्कल्‌क्षेत्रं अगच्छं। तस्मै मित्राय एतत्‌ पत्रं प्रेषितवान्‌ अहं।

प्रियवासुमहोदय!
स्वस्ति। धर्मकार्यैः लब्धं पुण्यं न वण्टितुं शक्यते किंतु तदर्थं कृतं व्ययं अवश्यं समं वण्टनीयं। अनेन द्विसहस्रैकशतपञ्चादशरूप्यकात्मकं धनपत्रं यथोक्तं प्रेष्यते। २३-Nov-०७/२४-Nov-०७दिनाङ्कयोः कार्तिकपौर्णम्यां रमणीयकावेरीतीरे होगेनक्कल्‌क्षेत्रे श्रीमदाञ्जनेयगुरुराघवेन्द्रयोः सन्निधौ पाप्पारपट्टीआस्तिकसमाजेन सवैभवं वेदपारायणसत्प्रवचनगीतवाद्यादिसेवाभिः अनुष्ठितेषु सुदर्शनहोमधात्रीहोमश्रीसत्यनारायणपूजादिषु तीर्थस्नानस्तोत्रपठनवनभोजनादिभिः श्रीहरिसेवासौभाग्यावसरं दत्तवद्भ्यां भवद्भ्यां आवयोः धन्यवादाः। एवमेव अग्रेऽपि इहपरलाभाय पर्यटनं कुर्वीमहि।
सप्रेमादरं
मध्वपति रामचन्द्रः
२७-Nov-०७

नदीसमुद्रपर्वतवनादिप्राकृतिकसौन्दर्यं न कदाऽपि पर्युषितं भवति। स नूनं जडमतिः यस्तेन न प्रेरितः भवति। ते एव नदीतरङ्गाः ताः एव समुद्रलहर्यः सा एव पर्वतशिखरावली आसमन्तात्‌ तदेव निबिडवृक्षवनस्थलं यानेन गच्छद्भिः वृक्षान्तरे दृश्यमाना सा एव कावेरी स एव सदा सरभसं गर्जत्प्रपातः तथाऽपि दर्शं दर्शं ते दृश्यसन्निवेशाः अक्षय्येन नयनामृतायन्ते। पुनरुक्तिदोषः प्रत्येकलक्षणं बहुरूपैः दर्शयन्तीं प्रकृतिं न लिम्पति।

रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्‌ पर्युत्सुकीभवति यत्‌ सुखितोऽपि जन्तुः।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि॥ इति शाकुन्तले

निर्मलानन्दानुभवाय स्वास्थ्यं नाधिकं धनं च अपेक्ष्येते।

Wordsworthकविना जडमतिलक्षणं एवं वर्ण्यते -

A primrose by the river's brim,
An yellow primrose was to him
A flower and nothing more!

किंतु होगेनक्कल्‌क्षेत्रादिषु पर्यटद्भ्यः जनेभ्यः शासनं प्राकृतिकसौन्दर्यदर्शनकरं गृह्णाति। तत्क्षेत्रं प्रवेष्टुमपि करं दातव्यं। किंतु दिष्ट्या होगेनक्कल्‌प्रपाते निःशुल्कं स्नानं कर्तुं शक्यते। कार्तिकपौर्णम्यां ज्योत्स्नाप्लावितपर्वतोपरि भासमानं राकाचन्द्रश्रियमपि करं अदत्त्वा द्रष्टुं शक्यते। अस्मिन्‌ वणिग्युगे प्राकृतिकसौन्दर्यमपि विक्रेयवस्तु अतः पर्यटकसेवा बहुलाभदा अतिथिसत्कारः क्रयविक्रयविषयश्च।

Wednesday, 14 November 2007

१३-Nov-०७
आविश्वं स्थावरजङ्गमेषु आकीटब्रह्मपर्यन्तं प्राज्ञविधित्सा अर्थात्‌ Intelligent Design सृष्ट्यां सुस्पष्टं दृश्यते इति केचित्‌। तेषां उपपत्तिः प्रत्ययजनका। तथाऽपि असन्दिग्धप्रमाणं नास्ति इति केचिदन्ये शङ्कन्ते। तया शङ्कया एतां नर्मकथां स्मरामि।

स्वपत्नीं शङ्कमानः कश्चित्‌ वणिक्‌ कञ्चित्‌ गुप्तचरं आहूय वदति अपरनगरं गत्वा तत्र द्वित्रादिनानि मया स्थातव्यं। तेषु दिनेषु मम पत्न्याः गमनागमनं निभृतं निरीक्ष्य मयि प्रत्यागतवति मह्यं निवेदय इति। तथैव करिष्ये इति स गुप्तचरः। द्वित्रादिनानन्तरं स वणिक्‌ प्रत्यागत्य कथयतु इति गुप्तचरं वदति। स वदति। यस्मिन्‌ दिने भवान् प्रस्थानं कृतवान्‌ तस्मिन्नेव सन्ध्यायां कश्चित्‌ सुन्दरयुवजनः भवद्गृहं आगतवान्‌। भवत्पत्नी तं गाढं आलिङ्ग्य तस्य स्वागतं कृतवती। उभावपि यानेन पञ्चनक्षत्रभोजनगृहं अगच्छतां। तत्र तौ सरससल्लापं कृत्वा भोजनं अकुरुतां। ततः तौ कस्मिंश्चित्‌ कोष्ठे प्रविष्टौ। कामज्वरसंभ्रमेण चुम्बन्तौ परस्परविवस्त्रं कृतवन्तौ नग्नौ तौ बद्धद्वारस्य कुञ्चिकाछिद्रेण अपश्यं। शय्यायां एकोपर्यपरेण पतित्वा दीपः निर्वापितश्च। अनन्तरं किं संवृत्तं इति द्रष्टुं अशक्यं आसीत्‌ इति।

तच्छ्रुत्वा स वणिक्‌ सशिरस्ताडं विलपति हा धिक्‌ अद्यापि असन्दिग्धप्रमाणं न विद्यते इति।

(Wikipediaकोषे प्राज्ञविधित्सां पठित्वा लिखितं।)

Monday, 12 November 2007

Alexander Dumas इव कश्चित्‌ आख्यायिकाकारः भारतस्य अपेक्ष्यते यः तस्य अतिदीर्घं अतिविश्रुतं अतिशोकावहं च इतिहासं हृदयङ्गमकथारूपेण लिखेत्‌ यत्‌ जनाः सस्पृहं पठेयुः। वस्तुतः न केवलं भारतस्य किंतु ब्रह्माण्डस्य इतिहासं मत्स्याद्यष्टादशपुराणेषु वेदव्यासः सज्जनहितार्थं अकथयत्‌। किंतु पुराणकथाः सर्वे अविश्वसनीयाः उपेक्ष्याः ऐतिहासिकप्रमाणरहिताः च यतः ताः कैश्चित्‌ अप्रबुद्धैः कल्पिताः इति आधुनिकसुप्रबुद्धाः इतिहासरचनपाटवाः वामपङ्क्तिबुद्धिजीविनः वदन्ति। India इति एकशासनाधीनः देशः एव श्वेतमानवैः निर्मितः यत्र पुरा असंस्कृताः अशिक्षिताः असभ्याः जनाः एव आसन्‌। यवनश्वेतमानवैः एव अत्र सभ्यता प्रतिष्ठापिता अतः तेषां आगमनानन्तरं एव Indiaदेशस्य इतिहासं प्रावर्तत इति च। अत एव इतिहासकाराः कर्तुं विकर्तुं अन्यथाकर्तुं क्षमं किंतु भूतपरिवर्तने अक्षमं देवमपि अतिगच्छन्ति यतः ते इतिहासपरिवर्तनप्रवीणाः। इतिहासगतिः इतिहासकारायत्ता। बहुसहस्रवर्षेभ्यः पूर्वं किं संवृत्तं इत्यधिकृत्य प्रत्यक्षप्रमाणदृढप्रत्ययेन प्रतिपारदृश्वनः ते प्रतिपादयन्ति। अतः अनुभवगोचरस्य अद्य संवृत्तस्य याथार्थ्यं वयं न जानीमः। अग्रे केनचित्‌ इतिहासकारेण तत्‌ प्रतिपादितं भविष्यति। य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ गीता २, १९। न चैव न भविष्यामः सर्वे वयमतः परम्। गीता २, १२। इति प्रतिज्ञया अग्रे यदा वर्तमानं भूतं भविष्यति तदा इतिहासकारसौजन्येन जानीमहि।

Friday, 5 October 2007

नीचोऽसि तुच्छोऽसि अल्पोऽसि अज्ञोऽसि अयोग्योऽसि इति केचित्‌ धर्मोपदेशकाः सदा जनस्य दोषवल्मीकं अनुल्लङ्घ्यपर्वतीकृत्य यद्यपि अनेकप्रत्यूहप्रतिहतस्य तथाऽपि सद्वचनं श्रोतुकामस्य सामान्यजनस्य भग्नोत्साहं विदधति। येन त्रुटितोद्धाराशातन्तुः हृत्काठिन्यं भजमानः स पराञ्मुखः भवति।

अतः

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परंतप। गीता २, ३
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः॥ २, ३७
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्‌॥ २, ४०
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन। २, ४७
समत्वं योग उच्यते॥ २, ४८
कृपणाः फलहेतवः॥ २, ४९
योगः कर्मसु कौशलं। २, ५०
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌। स्वधर्मे निधनं श्रेयः परधर्मो भयावहः॥ ३, ३५
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं॥ ४, ७
परित्राणाय साधूनां विनाशाय दुष्कृतां। धर्मसंस्थापनार्थाय संभवामि युगे युगे॥ ४, ८
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ ४, ११
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा॥ ४, १२
यदृच्छालाभसन्तुष्टः। ४, २२
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः॥ ४, ३४
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः। सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि॥ ४, ३६
श्रद्धावांल्लभते ज्ञानं। ४, ३८
संशयात्मा विनश्यति॥ ४, ४०
उद्धरेदात्मनात्मानं नात्मानमवसादयेत्‌। आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ ६, ५
समलोष्टाश्मकाञ्चनः॥ ६, ८
समबुद्धिर्विशिष्यते॥ ६, ९
यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति। तस्याहं न प्रणश्यामि स च मे न प्रणश्यति॥ ६, ३०
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते॥ ६, ३५
न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति॥ ६, ४०
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहं॥ ७, २१
नाहं प्रकाशः सर्वस्य योगमायासमावृतः। ७, २५
यं यं वाऽपि स्मरन्‌ भावं त्यजत्यन्ते कलेवरं। तं तमेवैति कौन्तेय सदा तद्भावभावितः॥ ८, ६
अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः। ८, १४
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥ ८, २१, १५, ६
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते। तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं॥ ९, २२
येऽप्यन्यदेवताभक्ताः यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकं॥ ९, २३
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति। तदहं भक्त्युपहृतमश्नानि प्रयतात्मनः॥ ९, २६
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌। यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणं॥ ९, २७
अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌। साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥ ९, ३०
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति। कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति॥ ९, ३१
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः॥ ९, ३४
मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परं। कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च॥
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥ १०, १०
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा। तत्तदेवावावगच्छ त्वं मम तेजोऽंशसंभवं॥ १०, ४१
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्तिथा। यदि भाः सदृशी सा स्यद्भासस्तस्य महात्मनः॥ ११, १२
निमित्तमात्रं भव सव्यसाचिन्‌॥ ११, ३३
सर्वं समाप्नोषि ततोऽसि सर्वः॥ ११, ४०
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति। अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वाऽपि॥
यच्चावहासार्थामसत्कृतोऽसि विहारशय्यासनभोजनेषु। एकोऽप्यथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयं॥
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान्‌। न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रमितप्रभाव॥ ११, ४१-४३
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः। निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव॥ ११, ५५
विविक्तदेशसेवित्वमरतिर्जनसंसदि॥ १३, १०
वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहं॥ १५, १५
गुह्यतमं शास्त्रं। १५, २०
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः॥ १७, ३
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः। १८, ४५
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्‌। १८, ४८
प्रकृतिस्त्वां नियोक्ष्यति। १८, ५९
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया॥ १८, ६१
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु॥ १८, ६३
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे॥ १८, ६५
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज। अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः॥ १८, ६६
इदं ते नातपस्काय नाभक्ताय कदाचन। न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति॥ १८, ६७
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत। स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव॥ १८, ७३
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः। तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥ १८, ७८

इत्येतैः अत्युत्कृष्टप्रेरणादायकैः मानवकुलहितकारिभिः विशेषतः पतितेभ्यः करावलंबनदातृभिः उद्धाराशोद्दीपकैः स कालेनेह महता योगो नष्टः परन्तप (४, २) इत्युक्त्या श्रीमद्वैष्णवाचार्यैः पुनराविर्भावितस्य सनातनभक्तियोगशास्त्रस्य सारांशभूतैः हृदिस्पृग्भिः गीताश्लोकैः उद्धृताः भवेम।

Sunday, 23 September 2007

अपि वेदानां अपौरुषेयत्वं साधयितुं काञ्चित्‌ उपपत्तिं निवेदयेयं?

१ + १ = २ इति अतिसरलं गणितवाक्यं संभावयतु। अत्र १, २, +, = इत्यादयः गणितभाषायाः शब्दाः चिह्नानि च यानि गणितव्याकरणानुसारेण विन्यस्तानि सन्ति।

एतत्‌ गणितवाक्यं पौरुषेयं वा अपौरुषेयं वा इति विचारयेम। यद्यपि तानि गणितशब्दचिह्नानि कृत्रिमानि स्युः तथाऽपि तद्गणितवाक्यस्य अर्थः केवलं पौरुषेयः किं? केनचित्‌ सुविख्यातगणितज्ञेन तत्‌ व्याहृतं इति तद्गणितवाक्यस्य प्रामाण्यं प्रतिपादितं भवेत्‌ किं? अपौरुषेयं इति तद्गणितवाक्यं निरस्यते किं? तद्गणितवाक्यं सामान्यजनस्य अनुभवगोचरं भवति सर्वैः स्वीकृतं भवति च।

अनेन वेदानां अपौरुषेयत्वं प्रत्यक्षं साधितं इति न। किंतु अनुभवसिद्धानि अपौरुषेयवाक्यानि यद्यपि गणितवाक्यानि सन्ति यानि न केवलं सर्वैः प्रकृत्या अविचार्य अवश्यं स्वीकर्तव्यानि भवन्ति किंतु अस्माकं बुद्धिकौशलस्य निकषाश्मानि भवन्ति च इति दर्शितं अनेन।

Wednesday, 19 September 2007

Philosophy is the No Man's Land between Science and Religion इति Bertrand Russell आख्यः कश्चित्‌ प्रशस्तगणितज्ञः बहुश्रुतः बहुमतबुद्धिजीवी। अर्थात्‌ तस्य दृष्ट्या परस्परविरोधिनोः वैज्ञानिकधर्मशास्त्रयोः सेनयोरुभयोर्मध्ये निरर्थकस्तत्त्वविचारः मनोरथसारथिरहितः कृच्छ्रेण तिष्ठति। पाश्चिमात्यदेशेषु धर्माधिकारिणां (Church) राजकुलानां (State) च मध्ये सदा वर्तितेन परस्परेर्ष्याऽविश्वासजनितजनक्षोभेण ऐतिहासिकानुभवसिद्धं एतत्‌ मतं तस्य। अदुःखं इतरत्सर्वं जीवाः एव तु दुःखिनः। तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते॥ इत्युक्त्या भारते तु तत्त्वविचारः बहुजनसुखाय बहुजनहिताय अप्रतिरुद्धः अवर्तत।

यत्‌ प्रमेयं अर्थात्‌ इन्द्रियगोचरं बुद्धिगोचरं च भवेत्‌ तदेव विज्ञानशास्त्रविषयं भवति। अप्रमेयविषयेषु केचित्‌ ज्ञानगर्वरहिताः वैज्ञानिकाः न जानीमः इत्युक्त्वा विरमन्ति। अन्ये तु दृप्ताः विज्ञानबन्धवश्च नान्यदस्तीति स्वतृप्त्यै प्रतिपादयन्ति।

भगवान्‌ सर्वशक्तिमान्‌ सत्यसङ्कल्पश्च अतः एव स्वसृष्टौ मन्दमत्यगम्यैः स्वविहितनियमैरेव जगद्व्यापारकार्यं कारयति साधयति च। भगवत्सामर्थ्यस्य वैशिष्ट्यं एतत्‌ यत्‌ अतिमानुषंमपि अद्भुतकार्यं तत्तत्कालवर्तमानैः मानवबुद्धिकल्पितोपायैः स साधयतीव भाति। अतः एव नाहं प्रकाशः सर्वस्य योगमायासमावृतः (गीता ७, २५) इत्युक्त्या स अदृश्यः भवति। वैज्ञानिकशास्त्रविषयभूताः समस्तजडप्रवृत्तयः एवंकारं साध्याः भवन्ति। भिन्नभिन्नकालेषु भिन्नभिन्नवैज्ञानिकसिद्धान्तैः ताः प्रवृत्तयः पदात्पदं विशदीकृत्य अन्ततः कथमेतत्‌ इति प्रश्नस्य उत्तरं एवमेव भवेत्‌ इति कस्मिंश्चित्‌ अप्रतिपादनीये कल्पनागौरवदोषवर्जिते मानवबुद्धिकल्पिततत्त्वे अवस्यति यतः ते वैज्ञानिकाः स्वबुद्धिगम्यहेतुपटमेव पश्यन्ति। योगमायासमावृतेन हेतुमद्भावपटेनाच्छदितं आदिमूलकारणं अवगन्तुं असमर्थाः उत तस्मिन्‌ अश्रद्दधानाः नान्यदस्तीति वदन्ति। भगवान्‌ नर्मणा उद्दीपयतीव। सत्यान्वेषणे हेतुमद्भावावगुण्ठनानि उत्तरोत्तरं निरन्तरं अपावृत्य दुःशासनमिव श्रान्तं हैतुकं वैज्ञानिकं मयि विश्वासं कुरु इति स आह्वयते इव।

उदाहरणतः भूमिः सूर्यं कथं परिभ्रमति इति विशदीकर्तुं विख्यातNewtonवैज्ञानिकः वदति भूमिसूर्यौ इव केऽपि द्वे जडवस्तुनी परस्परं आकर्षतः। परिभ्रमणजनितं भूम्याः अपकेन्द्रीयबलं (centrifugal force) अभिकेन्द्रीयबलरूपेण (centripetal force) गुरुत्वाकर्षणेन (gravitational attraction) यथार्थतः सदा समीकृतं भवति अतः भूमिः निरन्तरं परिभ्रमति इति। किमर्थं ते आकर्षतः न च अपकर्षतः इति प्रश्नस्य उत्तरं तत्‌ जडलक्षणं इत्येव। तस्मिन्‌ काले वैज्ञानिककार्यार्थं तत्‌ निरूपणं अलं आसीत्‌। अनन्तरं तेन उत्तरेण असन्तुष्टः सुविख्यातEinsteinवैज्ञानिकः सामान्यजनबुद्धिबाह्यया अतिगहनतमगणितरीत्या भूमिपरिभ्रमणं व्याख्यातवान्‌। तस्य सिद्धान्तानुसारेण जडसन्निधौ आकाशः वक्रतां भजते तथा यथा वायुना आध्मातं समतलं नौवस्त्रं गोलाकारं भजते। सूर्येण एवं वक्रीकृते आकाशे भूमिगत्याः सरलरेखा संवृतं दीर्घवृत्तीयरूपं (closed ellipse) भजते तथा यथा सरलरूपं वंशपट्टं करण्डे वर्तुलायते इति। किमर्थं आकाशः वक्रतां भजते इति प्रश्नस्य उत्तरं तत्‌ आकाशलक्षणं इत्येव। अतः Newtonकाले भगवान्‌ तस्य विधिना भूमिं अभ्रामयत्‌ अनन्तरं Einsteinविधिना! किंतु भूमिस्तु दिष्ट्या यथापूर्वं सूर्यं परिभ्रमति येन वयं जीवामः यथेष्टं ऊहापोहकन्दुकेन क्रीडामश्च!!

Monday, 17 September 2007

भगवद्गीता न केवलं भारतीयेषु प्रसिद्धा किंतु समस्तब्रह्माण्डे प्रास्ताविका अतः सर्वदेशेषु सर्वकालेषु सर्वसमाजेषु सा उपपद्यते इति सर्वसंमतं। अतः तस्याः केषाञ्चित्‌ श्लोकानां अर्थक्षेत्रं यथाकालं यथावसरं मूलतत्त्वानां सीमान्तरे विस्तार्य तस्मिन्‌ भारतबाह्येभ्यः अन्यमतेभ्यः स्थानं दत्त्वा तस्याः सर्वसज्जनहितं आध्यात्मिकं सुसांराज्यं जगद्व्यापकं यदि भवेत्‌ कस्तत्र दोषः?

उदाहरणतः

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ ४, ११

यतः सर्वे जनाः सर्वनामवाच्यश्रीहरिमार्गेणैव गच्छन्ति अतः ये यथा इति समासे ईसावीययववनादयोऽपि (Christians, Muslims etc.) उद्दिष्टाः न भवेयुः किं?

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहं॥ ७, २१

अत्रापि यां तनुं इति समासे वैदिकबाह्यमतानां Crossइत्यादिप्रतीकोपासनाऽपि उद्दिष्टा इति कथने गीता कलुषिता जायेत किं?

येऽप्यन्यदेवताभक्ताः यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकं॥ ९, २३

अत्र अन्यदेवतासु Maryइत्यादिदेवताः न सूच्यन्ते किं?

श्रेयान्‌ स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌। ३, ३५; १८, ४७

अनेन ऐहिकलाभाय धनादिप्रलोभनेन आधुनिकमतपरिवर्तनं सुस्पष्टं द्विवारं न निन्द्यते निषिद्ध्यते च किं?

अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌। साधुरेव स मन्तव्यः संयक्‌ व्यवसितो हि सः॥ ९, ३०

स्वकर्मभारं वोढुं अशक्तेभ्यः पतितेभ्यः भग्नोत्साहेभ्यः सत्प्रेरणादायकं अस्य श्लोकस्य सर्वपापक्षयकृदर्थं एव Parable of the Prodigal Son इति नूतनसंहितागतया (New Testament) सुविख्यातकथया उपदिश्यते न किम्?