Thursday 24 April, 2008

The New Indian Expressइति समाचारपत्रिकायां 23-Apr-08दिनाङ्के प्रकाशितं "Mathoor is no sanskrit village" इति सशीर्षकवृत्तं पठनं अर्हति यस्मिन् भारतीयविद्याभवनस्य निर्देशकः मथूरु कृष्णमूर्तिमहोदयः वदति अस्मिन्‌ ग्रामे सर्वे संस्कृतं वदन्ति इति लब्धकीर्तौ मथूरुग्रामे संस्कृतभाषिणः न सन्त्येव। केनापि अन्यथाबोधेन ते ग्रामवासिनः संस्कृतज्ञाः इति उद्घोषिताः। इति। न जाने किं सत्यं किं असत्यं। किंतु भग्नाशः जातोऽस्मि।

स कृष्णमूर्तिमहोदयः स्वयं मथूरुग्रामवासी। अतः तस्य वचनं विश्वसनीयं इव भाति। किंतु अत्र Bertrand Russellतत्त्वज्ञस्य कञ्चित्‌ अभिप्रायं स्मरामि। पूर्वोद्देशकवाक्यानि (reflexive sentences) कदाचित्‌ स्वव्याहतात्मकानि भवेयुः यतः तानि चक्रतः स्वयाथार्थ्यं निरस्यन्ति प्रतिपादयन्ति च। तस्य उदाहरणं Bibleसंहितायाः आहृतं - "All Ephesians are liars" said an Ephesian इति। अत्र Ephesianजनाः सत्यं ब्रुवन्ति वा न वा इति निर्णेतुं न शक्यते यतः यदि ते सत्यवादिनः तर्हि ते मिथ्यावदिनः। प्रत्युत यदि ते मिथ्यावदिनः तर्हि ते सत्यवादिनः भवेयुः। एवं च मथूरुग्रामवासिनः न संस्कृतज्ञाः इति कश्चित्‌ संस्कृतज्ञः मथूरुग्रामवासी यदि वदेत् तस्य वचनस्य याथार्थ्यं कथं निर्णीयते?!