Sunday 23 September, 2007

अपि वेदानां अपौरुषेयत्वं साधयितुं काञ्चित्‌ उपपत्तिं निवेदयेयं?

१ + १ = २ इति अतिसरलं गणितवाक्यं संभावयतु। अत्र १, २, +, = इत्यादयः गणितभाषायाः शब्दाः चिह्नानि च यानि गणितव्याकरणानुसारेण विन्यस्तानि सन्ति।

एतत्‌ गणितवाक्यं पौरुषेयं वा अपौरुषेयं वा इति विचारयेम। यद्यपि तानि गणितशब्दचिह्नानि कृत्रिमानि स्युः तथाऽपि तद्गणितवाक्यस्य अर्थः केवलं पौरुषेयः किं? केनचित्‌ सुविख्यातगणितज्ञेन तत्‌ व्याहृतं इति तद्गणितवाक्यस्य प्रामाण्यं प्रतिपादितं भवेत्‌ किं? अपौरुषेयं इति तद्गणितवाक्यं निरस्यते किं? तद्गणितवाक्यं सामान्यजनस्य अनुभवगोचरं भवति सर्वैः स्वीकृतं भवति च।

अनेन वेदानां अपौरुषेयत्वं प्रत्यक्षं साधितं इति न। किंतु अनुभवसिद्धानि अपौरुषेयवाक्यानि यद्यपि गणितवाक्यानि सन्ति यानि न केवलं सर्वैः प्रकृत्या अविचार्य अवश्यं स्वीकर्तव्यानि भवन्ति किंतु अस्माकं बुद्धिकौशलस्य निकषाश्मानि भवन्ति च इति दर्शितं अनेन।

Wednesday 19 September, 2007

Philosophy is the No Man's Land between Science and Religion इति Bertrand Russell आख्यः कश्चित्‌ प्रशस्तगणितज्ञः बहुश्रुतः बहुमतबुद्धिजीवी। अर्थात्‌ तस्य दृष्ट्या परस्परविरोधिनोः वैज्ञानिकधर्मशास्त्रयोः सेनयोरुभयोर्मध्ये निरर्थकस्तत्त्वविचारः मनोरथसारथिरहितः कृच्छ्रेण तिष्ठति। पाश्चिमात्यदेशेषु धर्माधिकारिणां (Church) राजकुलानां (State) च मध्ये सदा वर्तितेन परस्परेर्ष्याऽविश्वासजनितजनक्षोभेण ऐतिहासिकानुभवसिद्धं एतत्‌ मतं तस्य। अदुःखं इतरत्सर्वं जीवाः एव तु दुःखिनः। तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते॥ इत्युक्त्या भारते तु तत्त्वविचारः बहुजनसुखाय बहुजनहिताय अप्रतिरुद्धः अवर्तत।

यत्‌ प्रमेयं अर्थात्‌ इन्द्रियगोचरं बुद्धिगोचरं च भवेत्‌ तदेव विज्ञानशास्त्रविषयं भवति। अप्रमेयविषयेषु केचित्‌ ज्ञानगर्वरहिताः वैज्ञानिकाः न जानीमः इत्युक्त्वा विरमन्ति। अन्ये तु दृप्ताः विज्ञानबन्धवश्च नान्यदस्तीति स्वतृप्त्यै प्रतिपादयन्ति।

भगवान्‌ सर्वशक्तिमान्‌ सत्यसङ्कल्पश्च अतः एव स्वसृष्टौ मन्दमत्यगम्यैः स्वविहितनियमैरेव जगद्व्यापारकार्यं कारयति साधयति च। भगवत्सामर्थ्यस्य वैशिष्ट्यं एतत्‌ यत्‌ अतिमानुषंमपि अद्भुतकार्यं तत्तत्कालवर्तमानैः मानवबुद्धिकल्पितोपायैः स साधयतीव भाति। अतः एव नाहं प्रकाशः सर्वस्य योगमायासमावृतः (गीता ७, २५) इत्युक्त्या स अदृश्यः भवति। वैज्ञानिकशास्त्रविषयभूताः समस्तजडप्रवृत्तयः एवंकारं साध्याः भवन्ति। भिन्नभिन्नकालेषु भिन्नभिन्नवैज्ञानिकसिद्धान्तैः ताः प्रवृत्तयः पदात्पदं विशदीकृत्य अन्ततः कथमेतत्‌ इति प्रश्नस्य उत्तरं एवमेव भवेत्‌ इति कस्मिंश्चित्‌ अप्रतिपादनीये कल्पनागौरवदोषवर्जिते मानवबुद्धिकल्पिततत्त्वे अवस्यति यतः ते वैज्ञानिकाः स्वबुद्धिगम्यहेतुपटमेव पश्यन्ति। योगमायासमावृतेन हेतुमद्भावपटेनाच्छदितं आदिमूलकारणं अवगन्तुं असमर्थाः उत तस्मिन्‌ अश्रद्दधानाः नान्यदस्तीति वदन्ति। भगवान्‌ नर्मणा उद्दीपयतीव। सत्यान्वेषणे हेतुमद्भावावगुण्ठनानि उत्तरोत्तरं निरन्तरं अपावृत्य दुःशासनमिव श्रान्तं हैतुकं वैज्ञानिकं मयि विश्वासं कुरु इति स आह्वयते इव।

उदाहरणतः भूमिः सूर्यं कथं परिभ्रमति इति विशदीकर्तुं विख्यातNewtonवैज्ञानिकः वदति भूमिसूर्यौ इव केऽपि द्वे जडवस्तुनी परस्परं आकर्षतः। परिभ्रमणजनितं भूम्याः अपकेन्द्रीयबलं (centrifugal force) अभिकेन्द्रीयबलरूपेण (centripetal force) गुरुत्वाकर्षणेन (gravitational attraction) यथार्थतः सदा समीकृतं भवति अतः भूमिः निरन्तरं परिभ्रमति इति। किमर्थं ते आकर्षतः न च अपकर्षतः इति प्रश्नस्य उत्तरं तत्‌ जडलक्षणं इत्येव। तस्मिन्‌ काले वैज्ञानिककार्यार्थं तत्‌ निरूपणं अलं आसीत्‌। अनन्तरं तेन उत्तरेण असन्तुष्टः सुविख्यातEinsteinवैज्ञानिकः सामान्यजनबुद्धिबाह्यया अतिगहनतमगणितरीत्या भूमिपरिभ्रमणं व्याख्यातवान्‌। तस्य सिद्धान्तानुसारेण जडसन्निधौ आकाशः वक्रतां भजते तथा यथा वायुना आध्मातं समतलं नौवस्त्रं गोलाकारं भजते। सूर्येण एवं वक्रीकृते आकाशे भूमिगत्याः सरलरेखा संवृतं दीर्घवृत्तीयरूपं (closed ellipse) भजते तथा यथा सरलरूपं वंशपट्टं करण्डे वर्तुलायते इति। किमर्थं आकाशः वक्रतां भजते इति प्रश्नस्य उत्तरं तत्‌ आकाशलक्षणं इत्येव। अतः Newtonकाले भगवान्‌ तस्य विधिना भूमिं अभ्रामयत्‌ अनन्तरं Einsteinविधिना! किंतु भूमिस्तु दिष्ट्या यथापूर्वं सूर्यं परिभ्रमति येन वयं जीवामः यथेष्टं ऊहापोहकन्दुकेन क्रीडामश्च!!

Monday 17 September, 2007

भगवद्गीता न केवलं भारतीयेषु प्रसिद्धा किंतु समस्तब्रह्माण्डे प्रास्ताविका अतः सर्वदेशेषु सर्वकालेषु सर्वसमाजेषु सा उपपद्यते इति सर्वसंमतं। अतः तस्याः केषाञ्चित्‌ श्लोकानां अर्थक्षेत्रं यथाकालं यथावसरं मूलतत्त्वानां सीमान्तरे विस्तार्य तस्मिन्‌ भारतबाह्येभ्यः अन्यमतेभ्यः स्थानं दत्त्वा तस्याः सर्वसज्जनहितं आध्यात्मिकं सुसांराज्यं जगद्व्यापकं यदि भवेत्‌ कस्तत्र दोषः?

उदाहरणतः

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ ४, ११

यतः सर्वे जनाः सर्वनामवाच्यश्रीहरिमार्गेणैव गच्छन्ति अतः ये यथा इति समासे ईसावीययववनादयोऽपि (Christians, Muslims etc.) उद्दिष्टाः न भवेयुः किं?

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहं॥ ७, २१

अत्रापि यां तनुं इति समासे वैदिकबाह्यमतानां Crossइत्यादिप्रतीकोपासनाऽपि उद्दिष्टा इति कथने गीता कलुषिता जायेत किं?

येऽप्यन्यदेवताभक्ताः यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकं॥ ९, २३

अत्र अन्यदेवतासु Maryइत्यादिदेवताः न सूच्यन्ते किं?

श्रेयान्‌ स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌। ३, ३५; १८, ४७

अनेन ऐहिकलाभाय धनादिप्रलोभनेन आधुनिकमतपरिवर्तनं सुस्पष्टं द्विवारं न निन्द्यते निषिद्ध्यते च किं?

अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌। साधुरेव स मन्तव्यः संयक्‌ व्यवसितो हि सः॥ ९, ३०

स्वकर्मभारं वोढुं अशक्तेभ्यः पतितेभ्यः भग्नोत्साहेभ्यः सत्प्रेरणादायकं अस्य श्लोकस्य सर्वपापक्षयकृदर्थं एव Parable of the Prodigal Son इति नूतनसंहितागतया (New Testament) सुविख्यातकथया उपदिश्यते न किम्?

Monday 10 September, 2007

कतिपयमासान्‌ न किमपि अलिखं। यौवनपर्वतप्रदेशेषु जीवननदी अतिरभसेन धावति। जीवनस्य उत्तरार्धसमभूम्यां सा शान्त्या अपसर्पति। आसन्नसागरसङ्गमेऽस्मि। वृत्तशून्यं स्वजीवनं Dr Johnson एवं वर्णयति मम पूर्णजीवनं दिनमेकं दधाति इति (vitam continet una dies: One day contains the whole of my life.)। अस्यां अवस्थायां केचित्‌

निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः। भागवते १, १६, ९
(Nights lost in sleep and days in labours vain - मम अवतरणं)

इति अनुतप्यन्ते। किंतु अहं सुखदुःखौषधाभ्यां मम आध्यात्मिकस्वास्थ्यं रक्षितवते धन्वन्तरिरूपाय भगवते सानन्दं कृतज्ञतां समर्पयामि। अतः एव अस्माकं प्राचीनभारतीयप्रार्थनां

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत्‌॥

इति पुनः पुनः समर्पयामि।


Googleपृष्ठानि संस्कृतमध्यपातभाषया द्रष्टुं एते आन्तर्जालस्थाने अभिगच्छतु :

रुचयः (Preferences)
भाषासाधनानि (Language Tools)

किंतु यद्यपि बहुशः Googleसन्देशानां उपक्षेपाणांश्च संस्कृतेन अवतरणं अकरवं तथाऽपि सर्वाणि पृष्ठानि संस्कृतमध्यपातभाषया न दृश्येयुः यतः Preferences इति पृष्ठे मध्यपातभाषा इत्यस्य विकल्पसूचीपिटे (combo box) संस्कृतभाषा न विद्यते।