Thursday 31 May, 2007

आरंभशूराः खलु दाक्षिणात्याः इति लोकोक्तिः प्रतिपादिता अनेन निजवृत्तिपत्र(blog)कारेण इति उपहास्यतां गच्छेयं यतः गतकतिपयदिनानि न किमपि अलिखं। तत्र कारणमस्ति। Googleव्यष्टिः विविधमध्यपातभाषासु (interface languages) उपलब्धा अस्ति इति ज्ञातमेव। तासु भाषासु संस्कृतभाषा अपि विद्यते एव। विविधभाषावक्तृभ्यः उपयोक्तृभ्यः Googleसन्देशवाक्यानां समासानां च तस्यां तस्यां मध्यपातभाषायां अवतरणं कर्तव्यं भवति। एषु दिनेषु संस्कृतभाषायां अवतरणकार्ये अत्युत्साहेन व्यापृतोऽस्मि। Googleगणनायां (Google Account) पञ्जीकृत्य भाषासाधनानि (Language Tools) इति संबन्धं (link) अनुसृत्य यः कोऽपि अवतरणकार्ये यथामति कर्म निर्वाहितुं शक्नुयात्‌।

बालानां कृते क्रीडनकाः यथा तथा मम कृते शब्दाः। अतः संस्कृतेन अवतरणकार्यं मह्यं अतीव रोचते।

Saturday 19 May, 2007

केवलं कस्याश्चित्‌ ऊर्ध्वाधरकाष्ठायाः छायादीर्घतां कर्कसङ्क्रान्त्यां मध्याह्ने मित्वा भूपरिधिं Eratosthenes अगणयत्‌।

अत्र पठतु


क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे इत्यस्य अत्युत्तमं लौकिकदृष्टान्तं एतत्‌।

Thursday 17 May, 2007

अहङ्कारयुक्तानां बलवतां च अत्याचारान्‌ समाधातुं दौर्जन्यं दमयितुं च प्रजातन्त्रं एव अलं किंतु जनस्य अन्तःसत्त्वं प्रफुल्लयितुं आविष्कर्तुं च न तत्‌ क्षमते। प्रजातन्त्रजले मध्यविवेकिमीनः एव सुखेन जीवेत्‌ इति प्रजातन्त्रं कदाचित्‌ लघूक्रियते।

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः।
स यत्‌ प्रमाणं कुरुते लोकस्तदनुवर्तते॥ गीता ३, २१

(Whatever a great man does, that very thing other men also do; whatever standard he sets up, the generality of men follow the same.)

The history of the world is the biography of great men इति Carlyleवचनं गीतानुकूलं। कः पन्था इति यक्षप्रश्नस्य उत्तरं युधिष्ठिरेण एवं दत्तं।

तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः नैको ऋषिर्यस्य मतं प्रमाणं।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्था॥ महाभारते वनपर्वणि ३१३

(Reason is a journey that leads to nowhere; the Scriptures speak in many voices; no man is a Prophet in every land and every age; the Truth of Dharma is hidden in the cave (of Speculation); (In such a situation, therefore,) the best way is to follow the foot-prints of wise and enlightened men.)

महापुरुषराज्यं वरं इव भाति। किंतु कलियुगे महापुरुषाः कुत्र स्युः? अतः विशिष्टजनेषु प्रकृत्या उदासीनेभ्यः मध्यविवेकिभ्यः बहुसङ्ख्यात्मकेभ्यः निर्विशेषजनेभ्यः प्रजातन्त्रं एव हितं येन ते संविधानकर्त्रादिमहापुरुषप्रेरणया युधिष्ठिरप्रस्तावितेन महाजनपथा मन्दं मन्दं गच्छेयुः।

भारतनिर्वाचने जनानां मतं कदाचित्‌ विस्मयकरं भवति। अतः

-the people's voice is odd:
It is and it is not the Voice of God!

इति Popeकविवचनात्‌।

Tuesday 15 May, 2007

परित्यजेदर्थकामौ धर्मपीडाकरौ नृप।
धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च॥ श्रीश्रीविष्णुपुराणं ३, ११, ७

प्रत्येकजनस्य गुणाः पाटवं बुद्धिकौशलं च विद्यन्ते यैः तस्य स्वधर्मः परिच्छिन्नः भवति। तस्य स्वधर्मस्य अविरोधेन धनार्जनं स्वार्जितधनमितं इष्टपूरणं च भवतु इति उपदेशः। अपि च जनः युगदेशसंप्रदायान्तर्गतधर्मेणापि बद्धः। यदा ते संप्रदायाः आपत्काले जनेभ्यः करावलम्बनं अदत्त्वा दुःखयेयुः बहुजनसुखाय वा बहुजनहिताय वा न भवेयुः समाजविरुद्धाश्च भवेयुः तदा ते समाहितव्याः उत परिवर्तनीयाः उत त्याज्याः इत्यपि स्पष्टं। अहो कियत्‌ प्रगतिशीलं एतत्‌ पुराणवचनं! एषः अभिप्रायः एव Tennysonकाव्ये ध्वन्यते एवं

The old order changeth yielding place to new
And God fulfills Himself in many ways
Lest one good custom should corrupt the world.

सत्संप्रदायः कथं समाजं कलुषयेत्‌ इति मम शङ्का अनेन निरस्ता।

Monday 14 May, 2007

५०वर्षाणि इन्द्रप्रस्थे उषित्वा सेवानिवृत्तिं प्राप्त्वा 27-Jun-03दिनाङ्के तन्नगरं त्यजति मयि Nizamuddin railस्थानकं मां आमन्त्रयितुं आगतवद्भिः मम मित्रैः तत्रैव विद्यमानात्‌ गीतामुद्रणालयपुस्तकविपणीतः पुस्तकं एकं क्रीत्वा मह्यं उपाहृतं। तत्पुस्तकं श्रीश्रीविष्णुपुराणं! पुराणानां अनास्वादितरसः अहं कतिपयमासान्‌ तत्पुस्तकं न पठितवान्‌। अनन्तरं तत्‌ पाठं पाठं तस्य पुराणस्य इहपरमार्गदर्शकदीपेन संशयतिमिरं अपाकृतं। यत्‌ मया गृहीतं तत्‌ यथामति दिनेषु गच्छत्सु वक्ष्यामि।

भारतपुराणानि प्राचीनस्थूलबुद्धिजनकल्पितानि अनर्थककथामयानि अतः न विश्वसनीयानि ऐतिहासिकसामाजिकनैतिकगरिमारहितानि च इति आधुनिकवामपङ्क्तिजनानां मतं। Homerरचितयोः Iliad, Odysseyमहाकाव्ययोः अतिपाण्डित्यादरप्रीतिना अक्षरशः अनुसन्धानं कृत्वा Troyआख्यं मनोहरं चलनचित्रं BBCसंस्थानेन सृष्ट्वा प्रकाशितं। Homer न UKकविः न च तस्य भाषा UKभाषा। तथाऽपि प्राचीनसभ्यतां अवगन्तुं तस्याः साहित्यं अवश्यं अधिगन्तव्यं इति सतां नियमेन ते प्रेरितवन्तः। किंतु हन्त अस्माकमेव भारतीयाः वामपङ्क्तिजनाः तथा तैः प्रभाविताः secularismवादिनश्च प्राचीनभारतसाहित्यं अवमन्यन्ते। आङ्ग्लभाषापत्रिकासु तेषां अभिप्रायाः एव प्रकाश्यन्ते। अतः ते एव भारतसामाजिकविषयेषु प्राधान्यं लभन्ते।

कदा वा भारतीयाः प्राचीनभारतसाहित्ये आत्मश्रेयसे रमेरन्‌?

Saturday 12 May, 2007

श्रीगणेशाय नमः॥ अद्य (12-May-07) ऐदंप्रथमतया एतत्‌ द्विभाषात्मकं blogस्थानं प्रारभ्यते। एतत्‌ kalidasa.blogspot.com इति blogस्थानेन प्रेरितं इति वक्तव्यं। अस्मिन्‌ जालस्थाने बहुशः संस्कृतेन पत्रारोपणानि (postings) लिख्यन्ते। आङ्ग्लभाषयाऽपि चर्चां कर्तुं शक्यते।

सामान्यजनेषु संस्कृतं प्रचलीकर्तुं कृतनिश्चयोऽस्मि। सर्वत्र अङ्ग्लभाषा भाष्यते। अतः किं स्थानं संस्कृतस्य? मैवं। स्पर्धाभावेन नायं आरंभः क्रियते। किंतु भारतीयानां भारते कौतुकं उत्पादयितुं। प्रायशः ते आङ्ग्लभाषाग्रन्थेभ्यः एव भारतं जानन्ति। न तत्र दोषः। यतः परसमीक्षा आत्मशोधनाय साहाय्यं करोति यदि सा निष्पक्षपाता स्यात्‌। भारतं अवगन्तुं संस्कृतज्ञानं आवश्यकं भवति। किंतु आधुनिकभारते संस्कृतपोषणवर्धनाय शासनं मन्दौत्सुक्यं अस्ति। अतः Internetइत्यादिभिः उपकरणैः मादृशाः सामान्यजनाः संस्कृतं रक्षितुं वर्धयितुं च अर्हन्ति।

अस्मिन्‌ blogस्थाने कल्पितानां प्रयुज्यमानां च नूतनसंस्कृतशब्दानां कोषः अत्र विद्यते -
http://mrrao.0catch.com/techdict/techdict.html

अस्य निजवृत्तपत्रस्य (blog) को विषयः भवेत्‌? अतिसाधारणजनोऽस्मि। आहारनिद्राभयमैथुनानि समानमेतत्‌ पशुभिर्नराणां। एको विवेको तयोर्विशिष्यते तेनैव हीनः पशुभिः समानः॥ इत्युक्त्या सामान्यजनस्य मम दैनिकजीवनं कथं निरीक्षणीयं भवेत्‌? Jim Careyनटिते Truman Showआख्ये चलनचित्रे पाश्चात्यजनानां दूरदर्शनप्रकाशितेषु अत्यल्पविषयेषु अपि आसक्तिः सोल्लुण्ठं दर्शयते। अतः दैनिकजीवनवर्णनं वृथा। सार्वजनप्रेरणादायकाः उत्कृष्टसङ्कल्पाः मम मनसि उद्भवेयुः किं? असंभाव्यं। जीर्णमङ्गे वृत्तपत्रं इति भर्तृहरिपाठान्तरं भवतु! तथाऽपि स सुभाषितत्रिशतीं रचितवान्‌ यथा तथा अहमपि एतत्‌ निजवृत्तपत्रं वर्धयितुं प्रयतेय।

यावच्छक्यं संस्कृतपत्रारोपणस्य सारं आङ्ग्लभाषारूपेण प्रकाशयितुं प्रयतेय।

This is an attempt to keep a bi-lingual blog, namely in saMskR^itaM and English.. The postings will be in saMskR^itaM and the comments can be in saMskR^itaM (most welcome!) or English. The gist of the saMskR^itaM posting may be presented in English, whenever possible.

What place or chance has saMskR^itaM in a world of English? This blog is NOT intended to challenge the English language or its world-wide currency, but meant to kindle enthusiasm in my countrymen to learn about our country at first hand through saMskR^itaM and not through the medium of English, which, however well-intended, may not always be free from prejudice or condescension.

What is there in the life of a very ordinary individual like me deserving notice or worth the time of the reader? What great thought can be born in my mind to inspire men? Unlikely! Still, I wish to run this blog, like Alexander Pope, who

"- lisp'd in numbers, for the numbers came."