Thursday 31 May, 2007

आरंभशूराः खलु दाक्षिणात्याः इति लोकोक्तिः प्रतिपादिता अनेन निजवृत्तिपत्र(blog)कारेण इति उपहास्यतां गच्छेयं यतः गतकतिपयदिनानि न किमपि अलिखं। तत्र कारणमस्ति। Googleव्यष्टिः विविधमध्यपातभाषासु (interface languages) उपलब्धा अस्ति इति ज्ञातमेव। तासु भाषासु संस्कृतभाषा अपि विद्यते एव। विविधभाषावक्तृभ्यः उपयोक्तृभ्यः Googleसन्देशवाक्यानां समासानां च तस्यां तस्यां मध्यपातभाषायां अवतरणं कर्तव्यं भवति। एषु दिनेषु संस्कृतभाषायां अवतरणकार्ये अत्युत्साहेन व्यापृतोऽस्मि। Googleगणनायां (Google Account) पञ्जीकृत्य भाषासाधनानि (Language Tools) इति संबन्धं (link) अनुसृत्य यः कोऽपि अवतरणकार्ये यथामति कर्म निर्वाहितुं शक्नुयात्‌।

बालानां कृते क्रीडनकाः यथा तथा मम कृते शब्दाः। अतः संस्कृतेन अवतरणकार्यं मह्यं अतीव रोचते।

4 comments:

Himanshu Pota said...

भवान् नित्यं लिखतु भृशं लिखतु इति अस्माकं काङ्क्षा अस्ति किन्तु भवान् यत् किमपि लेखिष्यति वयं तस्य स्वागतं करिष्यामि|

धन्यवादः|
हिमांशुः|

m r rao said...

धन्यवादाः! धन्योऽस्मि यत्‌ मम लेखं कश्चित्‌ पठितुकामोऽस्ति! तेनैव संभावितोऽस्मि प्रेरितोऽस्मि च!

Yaajushi said...

शब्दाः क्रीडनकाः इव इति यत् भवान् उक्तवान्, तस्मात् प्रेरणां प्राप्य ममापि शब्दच्छलं भवता सह share कर्तुम् इच्छामि।
link इत्यर्थे शब्दान्वेषणं बहुकालात् अहमपि कुर्वती आसम्। भवतः लेखे 'सम्बन्ध' इति शब्दो दृष्टः। सोऽपि योग्यः एव, किन्तु तथापि तत् फिट् न भाति मम मनसि। तदर्थे नयतीति (to take to some other location) पुंलिङ्गे नेता स्त्रीलिङ्गे नेत्री वा स्वार्थे कन् इति कृत्वा नेत्रिकः नेत्रिका वा इति रूपं सिद्धं भवति। तत् link इत्यर्थेन उपयोक्तुं शक्यते वेति कस्माच्चित् व्याकरणपण्डितात् ज्ञातव्यः।
अथवा to point इत्यर्थं मत्वा 'सङ्केतकः', to indicate इति वा स्वीकृत्य 'निर्देशिका' इत्यादयः अपि प्रयोगाः अङ्गीकारार्हाः स्युः।
व्याकरणशास्त्रस्य अभ्यासस्य अभावात् अहं केवलं ऊहितुं शक्नोमि, न तु आधिकारिकतया वक्तुम्।
मम चिन्तने दोषाः सन्तीति अहं जानामि। तेषां परिष्कारः भवेत् चेत् अनुगृहीता भवेयम्।
धन्यवादाः।

Anonymous said...

meccas disturb assistance honors francaise rosny ranas ranitidine enough indifferent joining
lolikneri havaqatsu