परित्यजेदर्थकामौ धर्मपीडाकरौ नृप।
धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च॥ श्रीश्रीविष्णुपुराणं ३, ११, ७
प्रत्येकजनस्य गुणाः पाटवं बुद्धिकौशलं च विद्यन्ते यैः तस्य स्वधर्मः परिच्छिन्नः भवति। तस्य स्वधर्मस्य अविरोधेन धनार्जनं स्वार्जितधनमितं इष्टपूरणं च भवतु इति उपदेशः। अपि च जनः युगदेशसंप्रदायान्तर्गतधर्मेणापि बद्धः। यदा ते संप्रदायाः आपत्काले जनेभ्यः करावलम्बनं अदत्त्वा दुःखयेयुः बहुजनसुखाय वा बहुजनहिताय वा न भवेयुः समाजविरुद्धाश्च भवेयुः तदा ते समाहितव्याः उत परिवर्तनीयाः उत त्याज्याः इत्यपि स्पष्टं। अहो कियत् प्रगतिशीलं एतत् पुराणवचनं! एषः अभिप्रायः एव Tennysonकाव्ये ध्वन्यते एवं
The old order changeth yielding place to new
And God fulfills Himself in many ways
Lest one good custom should corrupt the world.
सत्संप्रदायः कथं समाजं कलुषयेत् इति मम शङ्का अनेन निरस्ता।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment