Wednesday, 19 September 2007

Philosophy is the No Man's Land between Science and Religion इति Bertrand Russell आख्यः कश्चित्‌ प्रशस्तगणितज्ञः बहुश्रुतः बहुमतबुद्धिजीवी। अर्थात्‌ तस्य दृष्ट्या परस्परविरोधिनोः वैज्ञानिकधर्मशास्त्रयोः सेनयोरुभयोर्मध्ये निरर्थकस्तत्त्वविचारः मनोरथसारथिरहितः कृच्छ्रेण तिष्ठति। पाश्चिमात्यदेशेषु धर्माधिकारिणां (Church) राजकुलानां (State) च मध्ये सदा वर्तितेन परस्परेर्ष्याऽविश्वासजनितजनक्षोभेण ऐतिहासिकानुभवसिद्धं एतत्‌ मतं तस्य। अदुःखं इतरत्सर्वं जीवाः एव तु दुःखिनः। तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते॥ इत्युक्त्या भारते तु तत्त्वविचारः बहुजनसुखाय बहुजनहिताय अप्रतिरुद्धः अवर्तत।

यत्‌ प्रमेयं अर्थात्‌ इन्द्रियगोचरं बुद्धिगोचरं च भवेत्‌ तदेव विज्ञानशास्त्रविषयं भवति। अप्रमेयविषयेषु केचित्‌ ज्ञानगर्वरहिताः वैज्ञानिकाः न जानीमः इत्युक्त्वा विरमन्ति। अन्ये तु दृप्ताः विज्ञानबन्धवश्च नान्यदस्तीति स्वतृप्त्यै प्रतिपादयन्ति।

भगवान्‌ सर्वशक्तिमान्‌ सत्यसङ्कल्पश्च अतः एव स्वसृष्टौ मन्दमत्यगम्यैः स्वविहितनियमैरेव जगद्व्यापारकार्यं कारयति साधयति च। भगवत्सामर्थ्यस्य वैशिष्ट्यं एतत्‌ यत्‌ अतिमानुषंमपि अद्भुतकार्यं तत्तत्कालवर्तमानैः मानवबुद्धिकल्पितोपायैः स साधयतीव भाति। अतः एव नाहं प्रकाशः सर्वस्य योगमायासमावृतः (गीता ७, २५) इत्युक्त्या स अदृश्यः भवति। वैज्ञानिकशास्त्रविषयभूताः समस्तजडप्रवृत्तयः एवंकारं साध्याः भवन्ति। भिन्नभिन्नकालेषु भिन्नभिन्नवैज्ञानिकसिद्धान्तैः ताः प्रवृत्तयः पदात्पदं विशदीकृत्य अन्ततः कथमेतत्‌ इति प्रश्नस्य उत्तरं एवमेव भवेत्‌ इति कस्मिंश्चित्‌ अप्रतिपादनीये कल्पनागौरवदोषवर्जिते मानवबुद्धिकल्पिततत्त्वे अवस्यति यतः ते वैज्ञानिकाः स्वबुद्धिगम्यहेतुपटमेव पश्यन्ति। योगमायासमावृतेन हेतुमद्भावपटेनाच्छदितं आदिमूलकारणं अवगन्तुं असमर्थाः उत तस्मिन्‌ अश्रद्दधानाः नान्यदस्तीति वदन्ति। भगवान्‌ नर्मणा उद्दीपयतीव। सत्यान्वेषणे हेतुमद्भावावगुण्ठनानि उत्तरोत्तरं निरन्तरं अपावृत्य दुःशासनमिव श्रान्तं हैतुकं वैज्ञानिकं मयि विश्वासं कुरु इति स आह्वयते इव।

उदाहरणतः भूमिः सूर्यं कथं परिभ्रमति इति विशदीकर्तुं विख्यातNewtonवैज्ञानिकः वदति भूमिसूर्यौ इव केऽपि द्वे जडवस्तुनी परस्परं आकर्षतः। परिभ्रमणजनितं भूम्याः अपकेन्द्रीयबलं (centrifugal force) अभिकेन्द्रीयबलरूपेण (centripetal force) गुरुत्वाकर्षणेन (gravitational attraction) यथार्थतः सदा समीकृतं भवति अतः भूमिः निरन्तरं परिभ्रमति इति। किमर्थं ते आकर्षतः न च अपकर्षतः इति प्रश्नस्य उत्तरं तत्‌ जडलक्षणं इत्येव। तस्मिन्‌ काले वैज्ञानिककार्यार्थं तत्‌ निरूपणं अलं आसीत्‌। अनन्तरं तेन उत्तरेण असन्तुष्टः सुविख्यातEinsteinवैज्ञानिकः सामान्यजनबुद्धिबाह्यया अतिगहनतमगणितरीत्या भूमिपरिभ्रमणं व्याख्यातवान्‌। तस्य सिद्धान्तानुसारेण जडसन्निधौ आकाशः वक्रतां भजते तथा यथा वायुना आध्मातं समतलं नौवस्त्रं गोलाकारं भजते। सूर्येण एवं वक्रीकृते आकाशे भूमिगत्याः सरलरेखा संवृतं दीर्घवृत्तीयरूपं (closed ellipse) भजते तथा यथा सरलरूपं वंशपट्टं करण्डे वर्तुलायते इति। किमर्थं आकाशः वक्रतां भजते इति प्रश्नस्य उत्तरं तत्‌ आकाशलक्षणं इत्येव। अतः Newtonकाले भगवान्‌ तस्य विधिना भूमिं अभ्रामयत्‌ अनन्तरं Einsteinविधिना! किंतु भूमिस्तु दिष्ट्या यथापूर्वं सूर्यं परिभ्रमति येन वयं जीवामः यथेष्टं ऊहापोहकन्दुकेन क्रीडामश्च!!

No comments: