Monday 17 September, 2007

भगवद्गीता न केवलं भारतीयेषु प्रसिद्धा किंतु समस्तब्रह्माण्डे प्रास्ताविका अतः सर्वदेशेषु सर्वकालेषु सर्वसमाजेषु सा उपपद्यते इति सर्वसंमतं। अतः तस्याः केषाञ्चित्‌ श्लोकानां अर्थक्षेत्रं यथाकालं यथावसरं मूलतत्त्वानां सीमान्तरे विस्तार्य तस्मिन्‌ भारतबाह्येभ्यः अन्यमतेभ्यः स्थानं दत्त्वा तस्याः सर्वसज्जनहितं आध्यात्मिकं सुसांराज्यं जगद्व्यापकं यदि भवेत्‌ कस्तत्र दोषः?

उदाहरणतः

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं। मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः॥ ४, ११

यतः सर्वे जनाः सर्वनामवाच्यश्रीहरिमार्गेणैव गच्छन्ति अतः ये यथा इति समासे ईसावीययववनादयोऽपि (Christians, Muslims etc.) उद्दिष्टाः न भवेयुः किं?

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहं॥ ७, २१

अत्रापि यां तनुं इति समासे वैदिकबाह्यमतानां Crossइत्यादिप्रतीकोपासनाऽपि उद्दिष्टा इति कथने गीता कलुषिता जायेत किं?

येऽप्यन्यदेवताभक्ताः यजन्ते श्रद्धयान्विताः। तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकं॥ ९, २३

अत्र अन्यदेवतासु Maryइत्यादिदेवताः न सूच्यन्ते किं?

श्रेयान्‌ स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्‌। ३, ३५; १८, ४७

अनेन ऐहिकलाभाय धनादिप्रलोभनेन आधुनिकमतपरिवर्तनं सुस्पष्टं द्विवारं न निन्द्यते निषिद्ध्यते च किं?

अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌। साधुरेव स मन्तव्यः संयक्‌ व्यवसितो हि सः॥ ९, ३०

स्वकर्मभारं वोढुं अशक्तेभ्यः पतितेभ्यः भग्नोत्साहेभ्यः सत्प्रेरणादायकं अस्य श्लोकस्य सर्वपापक्षयकृदर्थं एव Parable of the Prodigal Son इति नूतनसंहितागतया (New Testament) सुविख्यातकथया उपदिश्यते न किम्?

No comments: