Monday, 12 November, 2007

Alexander Dumas इव कश्चित्‌ आख्यायिकाकारः भारतस्य अपेक्ष्यते यः तस्य अतिदीर्घं अतिविश्रुतं अतिशोकावहं च इतिहासं हृदयङ्गमकथारूपेण लिखेत्‌ यत्‌ जनाः सस्पृहं पठेयुः। वस्तुतः न केवलं भारतस्य किंतु ब्रह्माण्डस्य इतिहासं मत्स्याद्यष्टादशपुराणेषु वेदव्यासः सज्जनहितार्थं अकथयत्‌। किंतु पुराणकथाः सर्वे अविश्वसनीयाः उपेक्ष्याः ऐतिहासिकप्रमाणरहिताः च यतः ताः कैश्चित्‌ अप्रबुद्धैः कल्पिताः इति आधुनिकसुप्रबुद्धाः इतिहासरचनपाटवाः वामपङ्क्तिबुद्धिजीविनः वदन्ति। India इति एकशासनाधीनः देशः एव श्वेतमानवैः निर्मितः यत्र पुरा असंस्कृताः अशिक्षिताः असभ्याः जनाः एव आसन्‌। यवनश्वेतमानवैः एव अत्र सभ्यता प्रतिष्ठापिता अतः तेषां आगमनानन्तरं एव Indiaदेशस्य इतिहासं प्रावर्तत इति च। अत एव इतिहासकाराः कर्तुं विकर्तुं अन्यथाकर्तुं क्षमं किंतु भूतपरिवर्तने अक्षमं देवमपि अतिगच्छन्ति यतः ते इतिहासपरिवर्तनप्रवीणाः। इतिहासगतिः इतिहासकारायत्ता। बहुसहस्रवर्षेभ्यः पूर्वं किं संवृत्तं इत्यधिकृत्य प्रत्यक्षप्रमाणदृढप्रत्ययेन प्रतिपारदृश्वनः ते प्रतिपादयन्ति। अतः अनुभवगोचरस्य अद्य संवृत्तस्य याथार्थ्यं वयं न जानीमः। अग्रे केनचित्‌ इतिहासकारेण तत्‌ प्रतिपादितं भविष्यति। य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्। उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ गीता २, १९। न चैव न भविष्यामः सर्वे वयमतः परम्। गीता २, १२। इति प्रतिज्ञया अग्रे यदा वर्तमानं भूतं भविष्यति तदा इतिहासकारसौजन्येन जानीमहि।

No comments: