Wednesday 14 November, 2007

१३-Nov-०७
आविश्वं स्थावरजङ्गमेषु आकीटब्रह्मपर्यन्तं प्राज्ञविधित्सा अर्थात्‌ Intelligent Design सृष्ट्यां सुस्पष्टं दृश्यते इति केचित्‌। तेषां उपपत्तिः प्रत्ययजनका। तथाऽपि असन्दिग्धप्रमाणं नास्ति इति केचिदन्ये शङ्कन्ते। तया शङ्कया एतां नर्मकथां स्मरामि।

स्वपत्नीं शङ्कमानः कश्चित्‌ वणिक्‌ कञ्चित्‌ गुप्तचरं आहूय वदति अपरनगरं गत्वा तत्र द्वित्रादिनानि मया स्थातव्यं। तेषु दिनेषु मम पत्न्याः गमनागमनं निभृतं निरीक्ष्य मयि प्रत्यागतवति मह्यं निवेदय इति। तथैव करिष्ये इति स गुप्तचरः। द्वित्रादिनानन्तरं स वणिक्‌ प्रत्यागत्य कथयतु इति गुप्तचरं वदति। स वदति। यस्मिन्‌ दिने भवान् प्रस्थानं कृतवान्‌ तस्मिन्नेव सन्ध्यायां कश्चित्‌ सुन्दरयुवजनः भवद्गृहं आगतवान्‌। भवत्पत्नी तं गाढं आलिङ्ग्य तस्य स्वागतं कृतवती। उभावपि यानेन पञ्चनक्षत्रभोजनगृहं अगच्छतां। तत्र तौ सरससल्लापं कृत्वा भोजनं अकुरुतां। ततः तौ कस्मिंश्चित्‌ कोष्ठे प्रविष्टौ। कामज्वरसंभ्रमेण चुम्बन्तौ परस्परविवस्त्रं कृतवन्तौ नग्नौ तौ बद्धद्वारस्य कुञ्चिकाछिद्रेण अपश्यं। शय्यायां एकोपर्यपरेण पतित्वा दीपः निर्वापितश्च। अनन्तरं किं संवृत्तं इति द्रष्टुं अशक्यं आसीत्‌ इति।

तच्छ्रुत्वा स वणिक्‌ सशिरस्ताडं विलपति हा धिक्‌ अद्यापि असन्दिग्धप्रमाणं न विद्यते इति।

(Wikipediaकोषे प्राज्ञविधित्सां पठित्वा लिखितं।)

4 comments:

webasura said...
This comment has been removed by the author.
webasura said...

priya rAmacandra mahodaya,
namastE! asaMdigdhO 'sti, vaNikO dveHShi bhavAn !! :))

m r rao said...
This comment has been removed by the author.
m r rao said...

प्रियCarlमहोदय!
न हि भो न हि! वणिक्षु न मम द्वेषः! सा कथा कस्यांश्चित्‌ पश्चिमपत्रिकायां पठिता मया। तत्र प्रायशः जनाः वणिग्वृत्त्या सर्वकार्येषु व्यवहरन्ति खलु। न च तत्र दोषः। आयव्ययविषयेषु वणिग्वृत्त्यैव वर्तनीयं। सार्वलौकिकसञ्चितकरस्य व्ययं यदि वणिग्वृत्त्या क्रियेत भारते सर्वत्र सदा सुभिक्षं वर्तेत आर्थिकवैषम्यं न्यूनीभवेच्च।
मध्वपति रामचन्द्रः